हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Shankaracharya Shodasopachara Puja – श्री शङ्करभगवत्पाद षोडशोपचार पूजा
पूर्वाङ्गं
पश्यतु ॥
हरिद्रा गणपति पूजा
पश्यतु ॥
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ वैदिकमार्ग प्रतिष्ठापकानां जगद्गुरूणां श्रीशङ्करभगवत्पादपूजां करिष्ये ।
ध्यानम् –
श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।
नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥
अस्मिन् बिम्बे श्रीशङ्करभगवत्पादं ध्यायामि ।
आवाहनम् –
यमाश्रिता गिरां देवी नन्दयत्यात्मसंश्रितान् ।
तमाश्रये श्रिया जुष्टं शङ्करं करुणानिधिम् ॥
श्रीशङ्करभगवत्पादमावाहयामि ।
आसनम् –
श्रीगुरुं भगवत्पादं शरण्यं भक्तवत्सलम् ।
शिवं शिवकरं शुद्धमप्रमेयं नमाम्यहम् ॥
श्रीशङ्करभगवत्पादाय नमः आसनं समर्पयामि ।
पूर्णकुम्भप्रदानम् –
नित्यं शुद्धं निराकारं निराभासं निरञ्जनम् ।
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ॥
श्रीशङ्करभगवत्पादाय नमः पूर्णकुम्भं समर्पयामि ।
पाद्यम् –
सर्वतन्त्रस्वतन्त्राय सदात्माद्वैतरूपिणे ।
श्रीमते शङ्करार्याय वेदान्तगुरवे नमः ॥
श्रीशङ्करभगवत्पादाय नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
वेदान्तार्थाभिधानेन सर्वानुग्रहकारिणम् ।
यतिरूपधरं वन्दे शङ्करं लोकशङ्करम् ॥
श्रीशङ्करभगवत्पादाय नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनीयम् –
संसाराब्धिनिषण्णाज्ञनिकरप्रोद्दिधीर्षया ।
कृतसंहननं वन्दे भगवत्पादशङ्करम् ॥
श्रीशङ्करभगवत्पादाय नमः आचमनीयं समर्पयामि ।
स्नानम् –
यत्पादपङ्कजध्यानात् तोटकाद्या यतीश्वराः ।
बभूवुस्तादृशं वन्दे शङ्करं षण्मतेश्वरम् ॥
श्रीशङ्करभगवत्पादाय नमः स्नापयामि ।
स्नानानन्तरं आचमनीयं समर्पयामि ।
वस्त्रम् –
नमः श्रीशङ्कराचार्यगुरवे शङ्करात्मने ।
शरीरिणां शङ्कराय शङ्करज्ञानहेतवे ॥
श्रीशङ्करभगवत्पादाय नमः वस्त्रं समर्पयामि ।
उपवीतम् –
हरलीलावताराय शङ्कराय वरौजसे ।
कैवल्यकलनाकल्पतरवे गुरवे नमः ॥
श्रीशङ्करभगवत्पादाय नमः उपवीतं समर्पयामि ।
रुद्राक्षमाला (आभरणम्) –
विचार्यं सर्ववेदान्तैः सञ्चार्यं हृदयाम्बुजे ।
प्रचार्यं सर्वलोकेषु आचार्यं शङ्करं भजे ॥
श्रीशङ्करभगवत्पादाय नमः रुद्राक्षमालां समर्पयामि ।
गन्धम् –
याऽनुभूतिः स्वयञ्ज्योतिरादित्येशानविग्रहा ।
शङ्कराख्या च तन्नौमि सुरेश्वरगुरुं परम् ॥
श्रीशङ्करभगवत्पादाय नमः गन्ध भस्मादिकं समर्पयामि ।
दण्डम् –
आनन्दघनमद्वन्दं निर्विकारं निरञ्जनम् ।
भजेऽहं भगवत्पादं भजतामभयप्रदम् ॥
श्रीशङ्करभगवत्पादाय नमः दण्डं समर्पयामि ।
अक्षतान् –
तं वन्दे शङ्कराचार्यं लोकत्रितयशङ्करम् ।
सत्तर्कनखरोद्गीर्ण वावदूकमतङ्गजम् ॥
श्रीशङ्करभगवत्पादाय नमः अक्षतान् समर्पयामि ।
पुष्पमाला –
नमामि शङ्कराचार्यगुरुपादसरोरुहम् ।
यस्य प्रसादान्मूढोऽपि सर्वज्ञो भवति स्वयम् ॥
श्रीशङ्करभगवत्पादाय नमः पुष्पमालां समर्पयामि ।
अष्टोत्तरशतनाम पूजा –
श्री शङ्करभगवत्पाद अष्टोत्तरशतनामावली
पश्यतु ॥
धूपम् –
संसारसागरं घोरं अनन्तक्लेशभाजनम् ।
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥
श्रीशङ्करभगवत्पादाय नमः धूपमाघ्रापयामि ।
दीपम् –
नमस्तस्मै भगवते शङ्कराचार्यरूपिणे ।
येन वेदान्तविद्येयं उद्धृता वेदसागरात् ॥
श्रीशङ्करभगवत्पादाय नमः दीपं दर्शयामि ।
नैवेद्यम् –
भगवत्पादपादाब्जपांसवः सन्तु सन्ततम् ।
अपारासार संसारसागरोत्तार सेतवः ॥
श्रीशङ्करभगवत्पादाय नमः महानैवेद्यं निवेदयामि ।
निवेदनानन्तरं आचमनीयं समर्पयामि ।
हस्तप्रक्षालन पादप्रक्षालनादिकं समर्पयामि ।
ताम्बूलं समर्पयामि ।
नीराजनम् –
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥
श्रीशङ्करभगवत्पादाय नमः कर्पूरनीराजनं दर्शयामि ।
नीराजनानन्तरं आचमनीयं समर्पयामि ।
प्रदक्षिण –
आचार्यान् भगवत्पादान् षण्मतस्थापकान् हितान् ।
परहंसान्नुमोऽद्वैतस्थापकान् जगतो गुरून् ॥
श्रीशङ्करभगवत्पादाय नमः प्रदक्षिण नमस्कारान् समर्पयामि ।
प्रार्थना –
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥
अनेकजन्म सम्प्राप्त कर्मबन्ध विदाहिने ।
आत्मज्ञान प्रदानेन तस्मै श्रीगुरवे नमः ॥
विशुद्ध विज्ञानघनं शुचिहार्दं तमोनुदम् ।
दयासिन्धुं लोकबन्धुं शङ्करं नौमि सद्गुरुम् ॥
देहबुद्ध्या तु दासोऽस्मि जीवबुद्ध्या त्वदंशकः ।
आत्मबुद्ध्या त्वमेवाहमिति मे निश्चिता मतिः ॥
एकः शाखी शङ्कराख्यश्चतुर्धा
स्थानं भेजे तापशान्त्यै जनानाम् ।
शिष्यस्कन्धैः शिष्य शाखैर्महद्भिः
ज्ञानं पुष्पं यत्र मोक्षः प्रसूतिः ॥
गामाक्रम्य पदेऽधिकाञ्चि निबिडं स्कन्धैश्चतुर्भिस्तथा
व्यावृण्वन् भुवनान्तरं परिहरंस्तापं समोहज्वरम् ।
यः शाखी द्विजसंस्तुतः फलति तत् स्वाद्यं रसाख्यं फलं
तस्मै शङ्करपादाय महते तन्मः त्रिसन्ध्यं नमः ॥
गुरुपादोदकप्राशनम् –
अविद्यामूलनाशाय जन्मकर्मनिवृत्तये ।
ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं शुभम् ॥
गुरुपादोदकं प्राशयामि ।
समर्पणम् –
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥
अनया पूजया सर्वदेवात्मकः भगवान् श्रीजगद्गुरुः प्रीयताम् ॥
ओं तत् सत् ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.